किरोरकान्तिरञ्जनं, सुशोभितं दृगञ्जनम् ।
दिने दिने नवं नवं, नमामि नन्दसम्भवम् ।।९।।
गुणाकरं सुखाकरं, कृपाकरं शुभाकरम् ।
सुरासुरासुदायकं, नमामि प्रेमनायकम् ।।१०।।
समस्तदोषशोषणं, समस्तभक्ततोषणम् ।
समस्तदासमानसं, नमामि कृष्णलालसम् ।।११।।
दृगन्तकान्तसायकं, निकामकामदायकम् ।
समस्तगोप नायकं, नमामि वेणुगायकम् ।।१२।।
महाभवाब्धितारकं, भवाब्धिकर्णधारकम्।
यशोमतीकिशोरकं, नमामि दुग्धचोरकम् ।।१३।।
समस्तमुग्धगोपिका-मनोजकाम दायकम् ।
नमामि भक्तर्-वर्द्धनं, दधिप्रियं जनार्दनम् ।।१४।।
सदैव पादपंकजं, मदीयमानसे निजम् ।
ददातु नन्दबालकः, समस्तभक्तपालकः ।।१५।।
निकुञ्जमञ्जुमाधुरीं, मिलिन्दवृन्दसुन्दरीम् ।
लभेयमिन्दिरास्तुतां, तथा कृपां विधीयताम् ।।१६।।
प्रमाणितं स्तवद्वयं, पठन्ति प्रातरुत्थिताः ।
त एव नन्दनन्दनं, मिलन्ति भावसंस्थिताः ।।१७।।